________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अथ सोऽप्यसंस्तरणे स्वशिष्यैः सह गतस्ते च वास्तव्यास्तमुपसम्पन्ना यदि "मा वच्चसु अम्ह साहार"मिति व्यवस्थाकरणत उभयेषां साधारणं तत् क्षेत्रं, ततो यदि गत्वा पुनरपि अपूर्णे एव मासे तत्र क्षेत्रे प्रत्यागच्छन्ति तदा तत् कृतायामुपसम्पदि तेषामेव प्रत्यागतानां क्षेत्रमाभाव्यतया संक्रामति, यदि वा साधारण्येन ॥२२१४॥
चतुर्थ
उद्देशकः ९७४ (A)
साम्प्रतमनयोरेव भङ्गयोराभवनव्यहारशेष उच्यते । अत्र पतितं "निट्ठिय सुहदुक्खयं जति करेंति" [गा. २२११] इति द्वारम्, अस्य व्याख्यानार्थमाह
सुहदुक्खितो समत्ते, वाएंतो निग्गएसु सीसेसु । वाइजंतो वि तहा, निग्गयसीसो समत्तम्मि ॥ २२१५ ॥
इदमुक्तम्-आगन्तुकाः सर्वेऽपि निर्गच्छन्ति, केवलमेकः प्रवाचकोऽवतिष्ठते । तत्र यदि निर्गतेषु शिष्येषु वाचयन् प्रवाचकः समाप्ते श्रुते सुखदुःखितः सुखदुःखनिमित्तमुपसम्पदं ग्राहितस्तदा तस्य वाच्यमानस्याऽऽभवति तत्क्षेत्रम्। इदं द्वितीयभङ्गमधिकृत्योक्तम्। प्रथमभङ्गमधिकृत्याह-तथा वाच्यमानोपि निर्गतशिष्यः समाप्ते श्रुते वक्तव्यः । किमुक्तं भवति? यदि
गाथा २२१५-२२२०
ऋतुबद्धे
काले
आभवन विधिः
९७४ (A)
For Private and Personal Use Only