SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७३ (B) वत्थव्वभद्दगम्मी, संघाडग जयण तह वि उ अलंभे ।। आगंतू नेति तओ अच्छति उ पवायगो नवरं ॥ २२१४ ॥ वास्तव्यभद्रके नियोक्तरि तेषामागन्तुकानामसंस्तरतामियं यतना- वास्तव्या आगन्तुकैः सममेकैकेन सङ्गाटेन भिक्षां हिण्डन्ते। अथ तथाप्यलाभस्तर्हि निर्गच्छन्ति। तत्रेयं भङ्गचतुष्टयेन यतना-आगन्तुकानां चतुर्भागो निर्गच्छति न वास्तव्यानां १, वास्तव्यानां चतुर्भागो, निर्गच्छति नागन्तुकानां २, वास्तव्यानामपि चतुर्भाग आगन्तुकानामपि च चतुर्भागः ३, उभयेषामपि चतुर्भागागमने चतुर्थः ४, स चात्र शून्यः, गमनमन्तरेणासंस्तरणात् । एवमप्यसंस्तरणेऽार्द्धगमने चितुर्भङ्गीयतना कर्तव्या। साप्येवम्-अर्धमागन्तुकानां गच्छति न वास्तव्यानां १, वास्तव्यानाम) गच्छति नागन्तुकानां २, वास्तव्यानामप्यर्धं गच्छति आगन्तुकानामपि ३, उभयेषामप्यर्धार्धा-गमनतः चतुर्थः, स चात्रापि पूर्वप्रकारेण शून्यः । इयं चतुर्भङ्गया चतुर्भागार्धभागगमनेन । यतना प्रथमभङ्गेऽपि द्रष्टव्या। अथैवमपि न संस्तरति तत आगन्तुकाः सर्वे निर्गच्छन्ति, नवरमेक: प्रवाचकस्तिष्ठति येन वास्तव्यान् प्रवाचयति। गाथा २२१०-२२१४ साधरणे क्षेत्रे असंस्तरणे यतना ९७३ (B) १. 11 चिह्नान्तर्गत पाठ: वा. पु. मु. नास्ति ॥ २. प्य द्धगमनत:- पु. प्रे.॥ For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy