SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७३ (A) उभयानपि प्रति नियोक्तुरभद्रकत्वात्तृतीयभङ्गवशान्नोभयं वास्तव्या प्राघूर्णकाश्च निर्गच्छन्ति। उभयानपि प्रति तस्य भद्रकत्वात्। एवममुना प्रकारेण चतुर्भजना चतुर्भङ्गी भवति॥ २२१२॥ तत्र प्रथमभङ्गमधिकृत्य विशेषमाहआगंतुभद्दगम्मी, पुवट्ठिया गंतु जइ पुणो एजा । तम्मि अपुण्णे मासे, संकमति पुणो वि सिं खेत्तं ॥ २२१३ ॥ आगन्तुकभद्रके नियोक्तरि ये पूर्वस्थितास्ते वक्ष्यमाणचतुर्भागार्धभागगमनयतनया गच्छन्ति, तथाप्यसंस्तरणे सर्वात्मना गच्छन्ति। ते गत्वा यद्यपूर्णे एव मासे तस्मिन् क्षेत्रे पुनरागच्छेयुस्तदा "सिं" तेषां प्रत्यागतानां क्षेत्रं सङ्क्रामति, तेषां तदाभाव्यं भवतीति भावः; कारणतो गत्वा पुनरपूर्णे एव मासे प्रत्यागमनात्। अथ साधारणमुभयेषां तत्क्षेत्रमासीत् "मा वच्चसु अम्ह साहारं" इति व्यवस्थाकरणात्, तदा तेषां पुनः प्रत्यागतानां साधारण्येन क्षेत्रं संक्रामति ॥ २२१३॥ द्वितीयं भङ्गमधिकृत्याह गाथा २२१०-२२१४ साधरणे क्षेत्रे असंस्तरणे यतना ९७३ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy