________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९७२ (B)
कुर्वन्ति सुखदुःखनिमित्तमुपसम्पदं प्रतिपद्यन्ते, तथा निष्ठिते श्रुतस्कन्धे य: प्रधावितः पुनरपि प्रतीच्छिकैः पश्चात् रुद्धो व्याघातो वाऽशिवादिभिः कारणैरुपजातस्तत्र यद् आभाव्यं तद्वक्तव्यमिति द्वारगाथासंक्षेपार्थः ॥ २२११ ॥
साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतो निर्गमनचतुर्भङ्गीमाह
वत्थव्व निंति न उ जे, उ पाहुणा१ पाहुणा न इयरे वार । उभयं व ३ नोभयं वा४, चउभयणा होति एवं तु ॥ २२१२ ॥
यस्य ग्रामप्रधानस्य नगरप्रधानस्य वा नियोगेन तिष्ठन्ति साधवः स चतुर्धा, तद्यथाआगन्तुकभद्रको नामैको न वास्तव्यभद्रक: १ वास्तव्यभद्रको नामैको नागन्तुकभद्रक: २ आगन्तुकभद्रको वास्तव्यभद्रकश्च ३ नागन्तुकभद्रको नापि वास्तव्यभद्रक: ४ एतच्चतुर्भङ्गीवशादधिकृतापि चतुर्भङ्गी जाता । तद्यथा-प्रथमभङ्गवशात् वास्तव्या निर्गच्छन्ति न प्राघूर्णका, नियोक्तुरागन्तुकभद्रकत्वात्। द्वितीयभङ्गवशात् प्राघूर्णका निर्गच्छन्ति न इतरे, द्वितीयभङ्गे नियोक्तुर्वास्तव्यभद्रकत्वाच्चतुर्थभङ्गवशात् उभयं प्राघूर्णका वास्तव्याश्च निर्गच्छन्ति,
गाथा २२१०-२२१४ साधरणे
क्षेत्रे असंस्तरणे यतना
९७२ (B)
For Private and Personal Use Only