________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशक: ९७१ (B)IN
पुच्छाहि तीहि दिवसं, सत्तहि पुच्छाहि मासियं हरइ । अहवा विसेसमन्नो, इमो उ तहियं अहिजते ॥ २२०८ ॥ तिसृभिः पृच्छाभिरेकं दिवसं यावत् तत्क्षेत्रं हरति, पृच्छादिवसे यत्तस्मिन् क्षेत्रे सचित्तादिकमुत्पद्यते तत् कथयन् लभते नेतर इति भावः । सप्तभिः पृच्छाभिः पुनर्मासिकं, पृच्छादिवसादारभ्य मासं यावत्सचित्तादिकमपहरति। तदेवं 'खेत्तभया वा कोई' [गा. २२०६] इत्यादिगाथापश्चार्धं व्याख्यातम्। इदानीं 'निक्खित्तगणाणं वा' इत्यादि पूर्वार्धं व्याख्यानयति। अथवाऽयं वक्ष्यमाणोऽन्यो विशेषस्तस्मिन्त्रधीयानेऽध्यापयितरि ॥ २२०८॥ तमेवाह
गाथा जति निक्खिविऊण गणं, उवसंपाएऽहवावि सीसं तु ।
२२०४-२२०९
क्षेत्राऽवग्रहता तेसिं चिय खेत्तं, वाएंते लाभो खेत्तबहिं ॥ २२०९ ॥
स्वरूपम् यदि गीतार्थे गणं निक्षिप्य तमागन्तुकमुपसम्पद्यते, अथवा शिष्यं प्रेषयति तदा तेषामेव || ९७१ (B) पूर्वस्थितानां तत्क्षेत्रमाभवति, न तु वाचयतः । वाचयति लाभस्तस्मात्क्षेत्राद् बहिः ॥२२०९॥ |
For Private and Personal Use Only