________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
|
क्षेत्रम् भवति। किमुक्तं भवति ? यत्ततः क्षेत्रात्सचित्तादिकमुत्पद्यते तत्तेषामेवाऽऽभवति न तु प्रवाचयन्नागन्तुको लभते । कोऽपि पुनः ‘मा ममागन्तुकस्य पार्श्वे शृण्वतः क्षेत्रं यायाद्' इति क्षेत्रभयादेवं वक्ष्यमाणप्रकारेण मातस्थानेन शृणोति ॥ २२०६ ।।
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९७१ (A)
तमेव प्रकारमाहकुड्डेण चिलिमिलीए व, अंतरितो सुणइ कोइ माणेण । अहवा चंकमणीयं, करेंतो पुच्छागमो तत्थ ॥ २२०७ ॥
कुड्येन यदि वा चिलिमिलिन्या जवनिकयान्तरितः सन् कोऽपि मानेन ममेदं क्षेत्रमाभवति तन्मा हस्तादुत्तरत्विति क्षेत्रगण शृणोति । अथवा मानेनैव यथोक्तरूपेण चक्रमणिकां कुर्वन् कोऽपि शृणोति, तत्र यद्यपि स न शृणोति तथापि तत्र पृच्छागमो भवति पृच्छा कर्तव्या भवति। ततः पृच्छातोऽपि तस्य तद् आभवति क्षेत्रम् ॥ २२०७॥
गाथा ४२२०४-२२०९
क्षेत्राऽवग्रहस्वरूपम्
९७१ (A)
अथ कतिभिः पृच्छाभिः कियन्तं कालं तस्याऽऽभवति क्षेत्रम्। अत आह
For Private and Personal Use Only