________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९७० (A)
ये ते स्वयमगीतार्था गीतार्थपरिग्रहरहिता वर्तन्ते ते यद्यन्यस्मिन् गीतार्थे आगते तस्योपसम्पदं न प्रतिपद्यन्ते, तदा तेषां प्रायश्चित्तं चत्वारो गुरुकाः। अथाऽन्यो गीतार्थ उपसम्पदना) नायातः कारणवशतश्च कथमप्येकाकी जातस्तस्य गीतार्थस्याशठस्य परिवाररहितत्वेनैकाकिनोऽपि क्षेत्रमाभवति। गतं कस्येति द्वारम्। इदानी कस्मिन्वेति द्वारमधिकृत्याह-यत्र वा यावन्ति दिनानि सङ्घस्य समवसरणं तत्र तावन्ति दिनान्यवग्रहो न भवति । एवं जिनस्नानादिषु मिलितानां यावन्महिमा तावदवग्रहाऽभावः । एतत्सर्वं समवसरणे नास्त्यवग्रह इत्यनेन सूचितम् । एवमक्षेत्रेऽवग्रहाऽभावः । अक्षेत्रेऽपि वसतौ मार्गणाऽवग्रहस्य भवति। सा चैवमक्षेत्रे वसतिषु समकं स्थितानां साधारणं क्षेत्रं, पश्चादागतानां तु न भवति ॥ २२०३ ॥
सेसं सकोसजोयण, पुव्वुग्गहियं तु जेण तस्सेव । समगोग्गह साहारं, पच्छाऽऽगतो होइ उ अखेत्ती ॥ २२०४ ॥
शेषं क्षेत्रमवग्रहो भवति, तच्च प्रमाणतः सक्रोशं योजनं पञ्चगव्यूतानीत्यर्थः । तत्रापि : येन पूर्वमवगृहीतं तस्यैव तत्क्षेत्रमाभवति, न शेषस्य । अथ समकमेव तस्यावग्रहः कृतस्तत्र आह- साधारणं तदा तेषां क्षेत्रम्। यस्तु पश्चादागतः स भवत्यक्षेत्री, न तस्याऽऽभवति
गाथा २२०४-२२०९ क्षेत्राऽवग्रहस्वरूपम्
९७० (A)
For Private and Personal Use Only