________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गच्छपरगच्छविभागं नेच्छंति, स्थविरकल्पादुत्तीर्णत्वात्॥२२०१॥
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९६९ (B)
अग्गीय समण संजइ, गीयत्थपरिग्गहाण खेत्तं तु । अपरिग्गहाण गुरुगा, न लभति सीसेत्थ आयरिओ ॥ २२०२ ॥
अगीतानामगीतार्थानां श्रमणानां संयतीनां च गीतार्थपरिग्रहाणां गीतार्थपरिगृहीतानां क्षेत्रम् अवग्रहो भवति, इयमत्र भावना-ये अगीतार्था अपि साधवो गीतार्थपरिगृहीता विहरन्ति, या अपि संयत्यो गीतार्थपरिगृहीता वर्तन्ते तेषामवग्रहो भवति । ते च यदि साधवो यदि . वा संयत्यो गीतार्थनिश्रामनुपपन्ना अगीतार्था विहरन्ति तदा तेषामपरिग्रहाणां गीतार्थपरिग्रहरहितानां विहरतां प्रायश्चित्तं चत्वारो गुरुका इति । एतेषां च संयतानां संयतीनां च गीतार्थाऽपरिगृहीतानां य: परिव्राजक आचार्यः सोऽत्र शिष्यान् स्वदीक्षितान् न लभते अपरिगृहीततयैव तेषां दीक्षणात् ॥२२०२ ।।
गीयत्थाऽऽगते गुरुगा, असती एगाणिए वि गीयत्थे । समोसरणे नत्थि उग्गहो, वसहीए उ मग्गणा अक्खेत्ते ॥ २२०३ ॥
गाथा २१९७-२२०३
अवग्रहस्वरूपम्
९६९ (B)
For Private and Personal Use Only