________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀܀
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशक:
९६९ (A) |
www.kobatirth.org
एवं ता सावेक्खे, निरवेक्खाणं पि उग्गहो नत्थि । मोत्तूण अहालंदे, तत्थ वि जे गच्छपडिबद्धा ॥ २२०० ॥
एवं तावत्सापेक्षे जातावेकवचनं, सापेक्षाणामुक्तं, सापेक्षा नाम- स्थविरकल्पिकाः । निरपेक्षा- जिनकल्पिकादयस्तेषामप्यवग्रहो नास्ति । किमविशेषेण सर्वेषां न ? इत्याहमुक्त्वा यथालन्दान् । तत्रापि गच्छप्रतिबद्धान् तेषामवग्रहो भवति, गच्छप्रतिबद्धत्वात्, अन्येषां तु सर्वेषामपि नास्ति ॥ २२०० ॥
आसन्नतरा जे तत्थ, संजया सो व जत्थ नित्थरइ ।
तहियं देंतुवदेसं, आयपरं ते न इच्छंति ॥ २२०१॥
Acharya Shri Kailassagarsuri Gyanmandir
तेषां गच्छनिर्गतानां जिनकल्पिकादीनां यो व्रतग्रहणार्थमुपतिष्ठति तं ते न प्रव्राजयन्ति, तथाकल्पत्वात्, किन्तु ये तत्रासन्नतराः संयताः स्थितास्तत्रोपदेशं ददति; यथा अमुक समीपे गत्वा प्रव्रजेति । अथवा जानन्ति ते श्रुतबलतो ये दूरे स्थितास्तत्र स एष निस्तरिष्यति तदेतत् ज्ञात्वा यत्र स निस्तरति तत्रोपदेशं प्रयच्छन्ति । परमार्थतः पुनस्ते आत्मपरमात्म
For Private and Personal Use Only
गाथा
| २१९७-२२०३ अवग्रहस्वरूपम्
९६९ (A)