________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९६८ (B)
कस्स पुण उग्गहो त्ती,परपासंडीण उग्गहो नत्थि । निण्होसन्ने, संजति, अगीते, गीते एक्के वा ॥ २१९८ ॥
कस्य पुनरवग्रहो भवति? इति शिष्यप्रश्नमाशय प्रोच्यते- परपाषण्डिनामवग्रहो नास्ति । ये च निण्हवा ये चाऽवसन्नाः, याश्च संयत्यो गीतार्थैरपरिगृहीताः, ये चागीतार्था गीतार्थनिश्रामनुपपन्नाः, यश्च निष्कारणमेकाकी गीतार्थः। एतेषां सर्वेषामप्यवग्रहो नास्ति ॥ २१९८॥ एतदेव सुव्यक्तमाहओसण्णाण बहूण वि, गीतमगीताण उग्गहो नत्थि । सच्छंदियगीयाण य, असमत्त अणीस गीए वि ॥ २१९९ ॥
अवसन्नानां बहनामपि गीतार्थानामगीतार्थानां चाऽवग्रहो नास्ति । सच्छंदियगीयाण यत्ति, ये गीतार्था अपि स्वच्छन्दिकाः, स्वच्छन्दतयैव च एकाकिनो विहरन्ति तेषामपि नास्त्यवग्रहः। तथा ये असमाप्ता असमाप्तकल्पाः, यस्य च समुदायस्य न विद्यते गीतो गीतार्थ ईशस्तेषामपि नास्त्यवग्रहः ॥ २१९९ ।।
गाथा २१९७-२२०३
अवग्रहस्वरूपम्
९६८ (B)
For Private and Personal Use Only