________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
XX
X.
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९६७ (B)
यद्यपि नाम द्वयोरपि साधारणो लाभस्तथापि यथा संघाटकेन भिक्षां हिण्डमानयो रत्नाधिकस्य लाभो गण्यते, एवमिहापि रत्नाधिकस्यावग्रहः। अथैको गीतार्थः अपरोऽगीतार्थस्तत्र यदि रत्नाधिकोऽगीतार्थोऽवमरत्नाधिको गीतार्थस्ततोऽवमरत्नाधिकस्यावग्रहः। अथ द्वावपि समगीतार्थों तत आह– समे गीतार्थेऽपरस्मिन् समकं च प्राप्ते द्वयोरपि साधारणोऽवग्रहः। तदेवं द्विसंख्याकगणावच्छेदकसूत्रमपि भावितम्। एवं द्विसंख्याकाऽऽचार्योपाध्यायसूत्रमपि भावनीयम् ॥ २१९५॥ इदानीं बहुत्वसूत्राणि पिण्डसूत्रं चातिदेशत आहएमेव बहूणं पी, पिंडे नवरोग्गहस्स उ विभागो । किं कतिविहो कस्स वे कम्मि व केवइयं वा भवे कालं॥२१९६॥ दारगाहा
एवमेव बहूनामपि भिक्षुप्रभृतीनामपि सूत्राणि भावनीयानि, 'द्विकसूत्रापेक्षया बहुत्वसूत्राणामर्थतो नानात्वाभावात् । पिण्डे पिण्डकसूत्रस्यापि स एवार्थः। नवरमत्राऽवग्रहस्य
गाथा २१९१-२१९६
सूत्रोक्तवागन्तिकव्यवहारादिः
९६७ (B)
१. व कहिं केवइयं- पु. प्रे. ॥ २. द्वित्वसूत्रा मो. सं. ॥
For Private and Personal Use Only