________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९६७ (A)
܀܀܀܀܀܀܀
****
www.kobatirth.org
समगीताऽगीता वा, गीतत्थपरिग्गहाण सति कज्जे । असमत्ताण विखेत्तं, अपभू पच्छा समत्तो वि ॥ २१९४ ॥
यदि द्वावपि पक्षौ गीतार्थौ यदि वा द्वावप्यगीतार्थौ अथवा गीतार्थपरिगृहीताः गीतार्थनिश्रां प्रतिपन्नाः समकमेककालं प्राप्तास्तेषां साधारणं क्षेत्रमाभवति । सति विद्यमाने कार्ये ग्लानप्रतिजागरणादिलक्षणे ये स्थिता अगीतार्था असमाप्ताश्च तेषामपि पश्चात्प्राप्तानां साधारणं क्षेत्रम्। ये पुनरगीतार्था अपि असमाप्ता अपि च पूर्वं प्राप्ताः, गीतार्थाः समाप्ताश्च निष्कारणं प्राक् स्थित्वा प्राप्तास्तदा असमाप्तानामप्यगीतार्थानामपि च तत् क्षेत्रं, पूर्वं प्राप्तत्वात्, न गीतार्थः समाप्तोऽपि च तस्य क्षेत्रस्य प्रभुः, निष्कारणं स्थित्वा पश्चात्प्राप्तत्वात् ॥ २१९४॥
समपत्त कारणेणं, खेत्ते वसहीए दोण्ह वी लाभो । रायणिए होति उग्गहो, गीयत्थे समम्मि दोहं पि ॥ २१९५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
समं समकमेककालं कारणेन पश्चाद्वा क्षेत्रेऽक्षेत्रे वा वसतौ प्राप्तयोर्द्वयोरपि लाभः साधारणः । अत्र पुनर्यदि विशेषविवक्षा क्रियते तदा यो रत्नाधिकस्तस्मिन्नवग्रहो भवति ।
For Private and Personal Use Only
܀܀܀
गाथा
|२१९१-२१९६ सूत्रोक्तवागन्तिक
व्यवहारादिः
९६७ (A)