________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६६ (B)
चाभवनव्यवहारो द्विधा भवति- सूत्रोक्तो वागन्तिकश्च। वाचा अन्तः परिच्छेदो वागन्तस्तेन निर्वत्तो वागन्तिकः। तत्र वागन्तिको नाम वक्ष्यमाणः ॥ २१९२ ॥
तमेवाहपह गामे, चित्तऽचित्तं, थी पुरिसं, बाल वुड्ड, सत्थादी । इच्छाए वा देंती, जो जं लाभे भवे बितितो ॥ २१९३ ॥
यत्पथि मार्गे लभ्यं तदस्माकम्, यत् ग्रामे तत् युष्माकम्। यदि वा यत्सचित्तं तत् युष्माकमचित्तमस्माकम्। अथवा स्त्री युष्माकं पुरुषोऽस्माकम्। अथवा बालोऽस्माकं वृद्धो युष्माकम्। यदि वा सत्थादी इति, यत् सार्थे लभ्यं तत् युष्माकमसार्थे अस्माकम्। अथवा इच्छया ददति । कथम्? इत्याह-यो यल्लभते तत्तस्याऽऽभवति एष सूत्रोक्तादाभवनव्यवहारात् द्वितीयो वागन्तिक आभवनव्यवहारः ।। २१९३ ।।
क्षेत्रे प्राप्तानामक्षेत्रे वा वसतिं प्राप्तानां यः सूत्रोक्त आभवनव्यवहारः स भिक्षूणामिव प्रतिपत्तव्यः, स चाविशेषेणोक्तः, गीतार्थाऽगीतार्थादिविशेषानुपादानाद्, अविशेषणे च भवति संदेहः, ततो भिक्षणां गणावच्छेदकानां च गीतार्थादिविभागेन विशेषं बिभणिषरिदमाह
गाथा ७२१९१-२१९६
सूत्रोक्तवागन्तिकव्यवहारादिः
९६६ (B)
For Private and Personal Use Only