________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९६६ (A)
܀܀܀܀܀
www.kobatirth.org
तामेव कुर्वन्नाह
पडियरए व गिलाणं, सयं गिलाणाउरो व मंदगती । अप्पत्तस्स वि एएहिं, उग्गहो दप्पतो नत्थि ॥ २१९१ ॥
प्रतिचरति वा प्रतिजागर्ति ग्लानं यदि वा स्वयं ग्लान आतुरो वा यदि वा स्वभावान्मन्दगतिः, एतैः कारणैरप्राप्तस्यापि समकालं पश्चात्प्राप्तस्याऽवग्रहो भवति । दर्पतो निष्कारणं स्थितानां पुनरवग्रहो नास्ति ॥ २१९१ ॥
एमेव गणावच्छे, पलिछण्णाणं च सेसगाणं तु । पलिच्छन्ने ववहारो, दुविहो वायंतिओ नाम ॥ २१९२॥
Acharya Shri Kailassagarsuri Gyanmandir
यथा भिक्षोरेकस्य बहूनां परिच्छन्नानां शेषकाणां चोक्तम्, एवमेव अनेनैव प्रकारेण एकस्मिन् गणावच्छेदे बहूनां परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयानां शेषकाणां च कारणवशत आत्मद्वितीयानां तुशब्दादेकत एकोऽपरत आत्मद्वितीय इत्यादिसंयोगगतानां च निरवशेषं वक्तव्यम् । तत्र परिच्छन्ने जातावेकवचनं परिच्छन्नानामुपलक्षणमेतत् परस्परमुपसम्पन्नानां
For Private and Personal Use Only
गाथा |२१९१-२१९६ सूत्रोक्तवागन्तिकव्यवहारादिः
९६६ (A)