________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९६५ (B)
XXXX
पुरुषः अस्माकं; यद्वा बालो युष्माकं, वृद्धोऽस्माकम्, अथवा यः सार्थेन सह व्रजतां लाभ: सोऽस्माकम्, असार्थेन युष्माकम्, यदि वा यो यल्लभते तत्तस्यैव । एवम्भूतेनेच्छितप्रतीच्छितेन य आभवनव्यवहारः स इच्छयाऽवग्रहः । एष च प्रायः पथि गच्छतां भवति । स्थानप्राप्तानां तु | सूत्रोक्त आभवनव्यवहारस्ततस्तमुपदर्शयति-समकालं क्षेत्रे प्राप्तानामक्षेत्रे वा वसतिं प्राप्तानां द्वयानामपि लाभः साधारणः। अथ न क्षेत्रमक्षेत्रे वा वसतिं समकालं प्राप्ताः किन्तु विषमकालं तत आह- अच्छंते न होति इत्यादि, यदि निष्कारणं स्थिता इति पश्चात् प्राप्तास्तदा नास्ति तेषामवग्रहः, किन्तु पूर्वप्राप्तानामेव। अथ कारणेन केनापि ग्लानप्रतिजागरणादिना स्थितास्ततः पश्चात्प्राप्तास्तर्हि भवति द्वयेषामपि साधारणोऽवग्रहः ॥ २१८९॥
एतदेव स्पष्टतरमुपदर्शयतिसमयं पत्ताणं साहारणं तु, दोण्हं पि होति तं खेत्तं । विसमं पत्ताणं पुण, इमा उ तहिं मग्गणा होइ ॥ २१९० ॥
समकमेककालं प्राप्तानां द्वयानामपि तत्क्षेत्रं भवति साधारणम्। विषमं विषमकालं प्राप्तानां पुनरियं तत्र क्षेत्रे मार्गणा भवति ॥ २१९० ॥
गाथा २१८४-२१९० पथि स्थाने च आभवनव्यवहारः
९६५ (B)
For Private and Personal Use Only