________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशः
९६५ (A)
܀܀܀܀܀܀
܀܀܀
www.kobatirth.org
अण्णोण्णनिस्सियाणं, अग्गीयाणंपि उग्गहो तेसिं । गीयपरिग्गहियाणं, इच्छाए तेसिमो होइ ॥ २१८८ ॥
अन्योन्यनिश्रितानां तेषामगीतानामपि गीतपरिगृहीतानामवग्रहो भवति । अवग्रहो नाम आभवनव्यवहारः । स च द्विधा- इच्छया सूत्रोक्तश्च । तत्र इच्छया तेषामयं वक्ष्यमाणो भवति ॥२१८८ ॥
तमेवाह
इच्छियपडिच्छिएणं, खेत्ते वसहीए दोण्हवी लाभो । अच्छंते न होइ उग्गहो, निक्कारण कारणे दोन्हं ॥ २१८९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इच्छया अवग्रहो नाम इच्छितप्रतीच्छितेन, इच्छा संजाताऽस्येति इच्छितं, प्रतीच्छा सञ्जातास्येति प्रतीच्छितं, इच्छितं च तत् प्रतीच्छितं च इच्छितप्रतीच्छितं, वाचा आभवनव्यवहारस्थापनम् । यथा- यत्पथि लभ्यते तदस्माकं यत् ग्रामे तद् युष्माकं, यदि वा यत्सचित्तं तदस्माकं, यदचित्तं तत् युष्माकमथवा या स्त्री व्रतग्रहणार्थमुपतिष्ठति सा युष्माकं
For Private and Personal Use Only
गाथा
| २१८४-२१९० * पथि स्थाने च आभवन
व्यवहार:
९६५ (A)