________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९६४ (B)
मिश्रानधिकृत्याहमीसाण एगो गीतो, होति अगीया उ दोण्णि तिण्णि वा। एगं उवसंपज्जे, ते उ अगीया इहर मासो ॥ २१८६ ॥ मिश्राणां मध्ये एक एकाकी गीतो गीतार्थः, अपरे तु द्वौ त्रयो वा भवन्त्यगीता अगीतार्थाः । तत्र तेऽगीता एकमुपसम्पद्येरन् । इतरथा चेन्नोपसम्पद्यन्ते तर्हि तेषां प्रायश्चित्तं लघुको मासः ॥२१८६ ॥
सो वि य जइ नवि इयरे, तस्स वि मासो उ एव सव्वत्थ । उवसंपया उ तेसिं, भणिया अण्णोण्ण निस्साए ॥ २१८७ ॥
गाथा २१८४-२१९० पथि स्थाने च आभवनव्यवहारः
सोऽपि चैको यदि तान इतरानपसम्पद्यमानान् नोपसम्पद्यते तदा तस्यापि प्रायश्चित्तं मासो लघुः। एवमेक आत्मद्वितीयो गीतार्थोऽपर आत्मतृतीय आत्मचतुर्थः इत्यादौ सर्वत्र भावनीयम्। एवमन्योन्यनिश्रया प्राग द्वारगाथायां तेषामुपसम्पत् भणिता उद्दिष्टा ॥ २१८७॥
९६४ (B)
For Private and Personal Use Only