SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९६४ (A) www.kobatirth.org पच्छा इयरे एगं, जइ नवि उवगच्छे मासियं लहुयं । जत्थ वि एगो तिणी य, न उवगमे तत्थ वी लहुगा ॥ २१८४ ॥ एकस्मिन्नुपसम्पन्ने पश्चादितरावप्युपसम्पद्येते, यदि पुनरेकं तावितरौ पश्चान्नोपगच्छेतां तदा तयोर्मासिकं प्रायश्चित्तं लघु । यत्राऽपि भङ्गे एकत एकोऽपरत्र त्रयस्तत्र यदि परस्परमुक्तप्रकारेण नोपगमस्तदा प्रायश्चित्तं लघुकाः । किमुक्तं भवति यद्येकस्त्रीन्नोपगच्छति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः, तं चेदुपगच्छन्तं पश्चादितरे त्रयो नोपगच्छन्ति तर्हि तेषां प्रायश्चित्तं लघुको मासः ॥ २१८४ ॥ एमेव अप्पबीतो, अप्पतइयं तु जइ न उवगच्छे । इयरेसि मासलहुयं एवमगीए य दट्ठव्वं ॥ २१८५ ॥ Acharya Shri Kailassagarsuri Gyanmandir एवमेव अनेनैवानन्तरोदितेन प्रकारेणात्मद्वितीय आत्मतृतीयं यदि नोपगच्छति तदा तस्य प्रायश्चित्तं चतुर्लघु । इतरश्चेत् तमुपगच्छन्तं नोपगच्छेत्तदा तस्य मासिकं लघु । इतरेषामेक आत्मतृतीयोऽपर आत्मचतुर्थ इत्येवमादीनां परस्परमनुपगमे प्रायश्चित्तं मासलघु । एवमुक्तप्रकारेणागीते अगीतार्थानां गीते गीतार्थानां च द्रष्टव्यम् ॥ २१८५ ॥ For Private and Personal Use Only *** गाथा | २१८४-२१९० पथि स्थाने च आभवनव्यवहारः ९६४ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy