SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ७९७ (B) प्रत्युपेक्षणादेः सम्यगकरणे यदि स्मारणं न करोति तत उपेक्षाप्रत्ययप्रायश्चित्तसम्भवः, ततः आवश्यिक्यादिनिरीक्षणायां व्याघातः। तथा भिक्षामटित्वा समागतस्य तस्य सङ्घाटस्या15 ऽऽलोचयतो यदि पठ्यते तदा विकटनायामग्रेतनस्य पश्चात्तनस्य च सम्मोहः, सम्मोहाच्च सम्यगनालोचना तद्भावाच्च चरणकरणव्याघात इति तदालोचनायां न पठनीयम्। तथा गच्छे | वसतो बहवः प्रतिपृच्छानिमित्तमागच्छन्ति ततस्तेषामपि प्रत्युत्तरदाने व्याघातः । तथा तं बहुश्रुतं तत्रस्थितं श्रुत्वा वादिनः समागच्छन्ति, ततस्तेऽपि निग्रहीतव्याः, अन्यथा प्रवचनोपघातः, ततस्तन्निग्रहणेऽपि व्याकुलना। तथा महति गणे बहवः प्राघूर्णकाः समागच्छन्ति, ततस्तेषां | विश्रामणया पर्युपासनया च व्याघातः। तथा बहवः खलु महति गणे ग्लानास्तेषां च* यावदालोचना श्रूयते तावद् व्याकुलना । तथा महति गणे भूयसां प्राघूर्णकादीनां प्रायोग्यं भैक्षं दुर्लभम् इति साधवः केऽपि कुत्राप्यन्यत्र प्रेषणीया इति व्याघातः ॥ १७१९ ।। ___वाउलणेसा इत्यादि, एषा व्याकुलना यथा कल्पे कल्पाध्ययने पञ्चमे उद्देशे सविस्तरं भणिता तथाऽत्रापि द्रष्टव्या २। नवमे पुव्वम्मीति व्याख्यानयति- नवमदशमे पूर्वेऽभिनवगृहीते यदि सततं न स्मर्येते ततो नश्येताम् अतोऽर्थं द्वयोर्विहार:३ ॥१७२० ॥ गाथा |१७१६-१७२० सूत्रप्रयोजनम् ७९७ (B) | For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy