________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
܀܀܀܀܀
सूत्रम् चतुर्थ उद्देशक: ९६३ (A)
܀܀܀܀܀
www.kobatirth.org
“भिक्खुस्स मासियं खलु" इत्यनेन पदेन यद् एकस्य भिक्षोः वक्तुमुपक्रान्तं तत् तं परिसमाप्तम् । इदानीं द्रव्यपरिच्छदेन परिच्छन्नानां जघन्येनाऽऽत्मतृतीयानां यद्वक्तव्यं तद्वक्ष्यामि ॥ २१८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
तदेवाह
तेसिं गीयत्थाणं, अगीतमिस्साण एस चेव विही ।
तो सापि य, वच्छामि विहिं जहाकमसो ॥ २१८१ ॥
तेषां द्रव्यपरिच्छन्नानां जघन्यत आत्मतृतीयानां बहूनां सर्वेषां [वा] गीतार्थानामथवा अगीतार्थानाम् यदि वा मिश्राणां केषाञ्चिद् गीतार्थानां केषाञ्चिदगीतार्थानामित्यर्थः, एष एवानन्तरोदित एकभिक्षुगत आलोचनाविषयो विधिरवसातव्यः, व्यतिरेके च प्रायश्चित्तमपि तथैव । अत ऊर्ध्वं शेषाणामपि विधिं यथाक्रमशो यथाक्रमेण वक्ष्यामि ॥ २१८१ ॥ तत्र शेषशब्दवाच्यानुपदर्शयति
सेसा तू भण्णंती, अप्पबितिया उ जे तहिं केई । गीयत्थमगीयत्थे, मीसे य विही उ सो चेव ॥ २१८२ ॥
For Private and Personal Use Only
गाथा २१७७-२१८३ विहारा
ऽपराधाऽऽ
लोचनादिः
९६३ (A)