________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६२ (B)
यदि गीतार्थ: शैक्षतरकस्तर्हि तस्मिन् गीतार्थे शैक्षतरकेऽपि पूर्वं रत्नाधिकेन प्रकाशना विहारविकटना अपराधविकटना चेत्यर्थः दीयते। पश्चात् गीतार्थोऽपि सन् स शैक्षतरक: हु निश्चितमगीते रत्नाधिके आलोचनां विहारालोचनां ददाति, न त्वपराधालोचनाम् ॥२१७८ ।।
कस्मात् ? इत्याहअवराहविहारपगासणाउ दोण्णि वि भवंति गीयत्थे । अवराहपयं मोत्तुं, पगासणं होतगीयत्थे ॥ २१७९ ॥
अपराधप्रकाशना विहारप्रकाशना च एते द्वे अपि प्रकाशने भवतो गीतार्थे । अगीतार्थे पुनरपराधपदं मुक्त्वा शेषस्य विहारस्य प्रकाशनं भवति, विहाराऽऽलोचना भवति नापराधालोचनेति भावः। अगीतार्थतया तस्यापराधाऽऽलोचनानहत्वात् ॥ २१७९ ॥
सम्प्रत्युपसंहारमाहभिक्खुस्सेगस्स गयं, पलिच्छन्नाणं इयाणि वोच्छामि । दव्वपलिच्छाएणं, जहण्णेण अप्पतइयाणं ॥ २१८० ॥
गाथा
२१७७-२१८३
विहाराऽपराधाऽऽलोचनादिः
९६२ (B)
For Private and Personal Use Only