________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६२ (A)
पश्चात्तस्य शैक्षतरस्य पुरतो न विकटयति तदा तस्यापि प्रायश्चित्तं मासलघु। अथ यदि द्वावप्यगीतार्थों तदा परस्परस्य विहाराऽऽलोचनैव केवला, नापराधालोचना। अथ द्वावपि गीतार्थों तदा परस्परस्य विहाराऽऽलोचना अपराधालोचना च ॥ २१७६ ।।
अथैको गीतार्थोऽपरश्चागीतार्थस्तत्रालोचनाविधिमाहराइणिए गीयत्थे, राइणिए चेव वियडणा पुव्विं । देइ विहारवियडणं, पच्छा रायाणितो सेहे ॥ २१७७ ॥
यदि रत्नाधिको गीतार्थ इतरोऽगीतार्थस्तर्हि गीतार्थे रत्नाधिके सति रत्नाधिके एव पूर्वं शैक्षतरेण विहारविकटना अपराधविकटना च दातव्या । ततः पश्चात् रत्नाधिकः शैक्षे शैक्षतरकस्य विहारविकटनां ददाति ॥ २१७७॥
अथ शैक्षतरको गीतार्थो रत्नाधिकस्त्वगीतार्थस्तत्राहसेहतरगे वि पुव्वं, गीयत्थे दिजए पगासणया । पच्छा गीयत्थो वि हु, ददाति आलोयणमगीते ॥ २१७८ ॥
गाथा २१७७-२१८३
विहारा
ऽपराधाऽऽलोचनादिः
९६२ (A)
For Private and Personal Use Only