________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९६१ (B)
दो भिक्खू अगीयत्था, गीया एक्को व होज उ अगीतो । राइणिय पलिच्छन्ने, पुव्वं इयरेसु, लहु लहुगा ॥ २१७५ ॥
द्वौ भिक्षू अगीतार्थी यदि वा द्वावपि गीतौ गीतार्थों, तयोः परस्परस्याऽऽलोचनम्, अन्यथा प्रायश्चित्तं मासलघु। अथवा एको गीतार्थ एकश्च भवत्यगीतार्थः, तत्र रत्नाधिके | परिच्छन्ने भावपरिच्छदोपेते गीतार्थे इत्यर्थः, पूर्वमालोचयितव्यं, पश्चादितरेष्वगीतार्थेषु रत्नाधिकेन, एवं चेत् ते न कुर्वते तर्हि रत्नाधिके प्रायश्चित्तं मासलघु, इतरेषां चत्वारो लघुकाः ॥ २१७५ ।।
एनामेव गाथां विवरीषुः प्रथमतो "दो भिक्खू अगीयत्था गीया' इत्येतद्विवृणोति- दोसु अगीयत्थेसुं, अहवा गीतेसु सेहतरो पुट्विं । जइ नालोयइ लहुओ, न विगडे इयरो वि जइ पच्छा ॥ २१७६ ॥
द्वयोर्भिक्ष्वोरगीतार्थयोः, अथवा गीतार्थयोर्मध्ये यदि शैक्षतरः पूर्वं रत्नाधिकस्य पुरतो RI नाऽऽलोचयति तदा तस्य प्रायश्चित्तं लघुको मासः । इतरोऽपि रत्नाधिकोऽपि यदि
।
गाथा २१७२-२१७६ अन्योन्योपसम्पद्विधिः
९६१ (B)
For Private and Personal Use Only