________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६० (B)
एवमनेन सम्बन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या-द्वौ भिक्षु एकतः संहतो विहरतः, नो एहमिति वाक्यालङ्कारे, कल्पते, अन्योन्यमुपसम्पद्य विहर्तुं न कल्पते। एहमिति पूर्ववत्, यथारत्नाधिकतयाऽन्योन्यमुपसम्पद्य विहर्तुम्। एवं गणावच्छेदकसूत्रमाचार्योपाध्यायसूत्रं च भावनीयमेवं बहुसंख्यासूत्रत्रयं पिण्डसूत्रं चेति सूत्रसप्तकसंक्षेपार्थः ।।
सम्प्रत्याद्यभिक्षुसूत्रव्याख्यानार्थमाहसंभोइयाण दोण्हं, खेत्तादिप्पेहकारणगयाणं । पंथे समागयाणं, भिक्खूण इमा भवे मेरा ॥ २१७३ ॥
द्वावाचार्यावन्यस्मिन् अन्यस्मिन् क्षेत्रे स्थितौ, तौ च परस्परं साम्भोगिकौ, तयोः साम्भोगिकयोः द्वयोराचार्ययोर्भिक्षवस्ताभ्यां प्रेषिताः क्षेत्रादिप्रेक्षाकारणगता: क्षेत्रप्रत्युपेक्षणार्थम्, आदिशब्दादुपधेर्मार्गणार्थं गताः। ते च तथागच्छन्तः पथि समागताः परस्परं मिलिताः। तेषां चैकेन पथा गन्तव्यम्, अतस्तेषां क्षेत्रादिप्रेक्षाकारणगतानां पथि समागतानां भिक्षूणां या मर्यादा सामाचारी सा इयं वक्ष्यमाणा भवति ॥ २१७३ ॥
गाथा २१७२-२१७६ अन्योन्योपसम्पद्विधिः
९६० (B)
For Private and Personal Use Only