________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९६० (A)
आचार्यस्य च शिष्यो द्विधा भिक्षुरभिक्षुश्च । तत्र भिक्षुः प्रतीतः । अभिक्षुः गणावच्छेदक उपाध्याय आचार्यो वा। तत आचार्यसूत्रात्प्रागुक्तादथानन्तरं भिक्षुसूत्रमुक्तम् ॥ २१७१ ॥
शेषसूत्रसम्बन्धप्रतिपादनार्थमाहएमेव सेसएसु वि, गुणपरिवड्डीए ठाणलंभो व। दुप्पभिइ खलु संखा, बहुआ पिंडो उ तेण परं ॥ २१७२ ॥
एवमेव पूर्वोक्तप्रकारेणैव शेषयोरपि गणावच्छेदका-ऽऽचार्यसूत्रयोः सम्बन्धः । तथाहिआचार्यस्य शिष्यो भिक्षुरभिक्षुश्च। तत्र भिक्षुसूत्रमुक्तम्। तदनन्तरमभिक्षोर्गणावच्छेदकस्याचार्यस्य च सूत्रे। अथ गुणपरिवृद्ध्या स्थानलाभो भवति। तथाहि- भिक्षुर्गुणाधिकत्वेन गणावच्छेदकस्थानं लभते। गणावच्छेदको गुणाधिकतया आचार्योपाध्यायस्थानम् अतो। भिक्षुसूत्रानन्तरं क्रमेण गणावच्छेदका-ऽऽचार्योपाध्यायसूत्रे। तथा द्विप्रभृतिका खलु संख्या बहुका भवति, ततो द्विसंख्यासूत्रत्रयानन्तरं बहुसंख्यासूत्रत्रयम्। बहूनां च परस्परमुपसम्पन्नानां पिण्डो भवति, तेन बहुसंख्यासूत्रत्रयात्परं पिण्डः पिण्डसूत्रमुक्तमिति ॥ २१७२ ॥
गाथा २१७२-२१७६ अन्योन्योपसम्पद्विधिः
९६० (A)
For Private and Personal Use Only