________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
H
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९५८ (B)
अबहुश्रुतादौ तु न ददाति इत्येद्भावयतिअबहुस्सुते न देंती, निरुवहते तरुणए य संघाडं। घेत्तूण जो व वच्चइ, तत्थ य गोणीए दिटुंतो ॥ २१६९ ॥
अबहुश्रुतः अल्पश्रुतः, निरुपहत: निरुपहतपञ्चेन्द्रियस्तरुणकश्च, तस्मिन् सत्स्वपि साधुषु संघाटं न ददाति, सहायान ददातीति भावः। यो वा गीतार्थोऽपि सन् प्रदत्तान् सहायान्विपरिणम्य गृहीत्वा व्रजति, तस्यापि सत्स्वपि साधुषु सहायान्न ददाति तथा च तत्र दुष्टशीलया गवा दृष्टान्तः ॥ २१६९॥
तमेव भावयतिसाडगबद्धा गोणी, जह तं घेत्तुं पलाति दुस्सीला । इय विप्परिणामंते, न देज संते वि हु सहाए ॥ २१७० ॥
यथा कस्यापि गौः पलायिता। ततः कथमपि लब्धा सती तेन शाटकेन बद्धा, यथा सा : शाटकबद्धा दुःशीला गौस्तं शाटकं गृहीत्वा पलायते। इति एवममुना प्रकारेण यो विपरिणामयति सहायान् तस्मिन् विपरिणामयति सतोऽपि सहायान दद्यात् ॥ २१७० ॥
सूत्र २६-३२
गाथा २१६८-२१७१ यथारनाधिकपार्श्व उपसम्पदा
९५८ (B)
For Private and Personal Use Only