________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९५८ (A)
www.kobatirth.org
܀܀܀܀܀
गुरुरत्नाधिकेन सह ततः स रत्नाधिकश्चिन्तयति, मा नूनमेतस्य भिक्षाहिण्डनव्याक्षेपेण प्रतिलेखनाव्याक्षेपेण च सूत्रार्था नश्येयुस्ततः संघाटं ददाति, अथवा एष मा समानगुरुकुलवासी सहाध्यायी द्रव्यपरिच्छदेनापरिच्छदो भूयात् [ इति] सहाध्याय्यन्तेवासिस्नेहतः सङ्घाटं ददात्यालोचनां प्रयच्छति । अल्पश्रुतस्य तु परिच्छदमुपसम्पदं वा न ददातीति । अथ स शैक्षतरको * रत्नाधिकाद्बहु श्रुतस्तदा नियमत उपसम्पत्तव्यः परिच्छदश्च तस्य दातव्यः । तथा चाहसूत्रार्थकारणात्सूत्रार्थं गृहीतुकामाः पुनराचार्या उपसम्पद्यन्ते परिच्छदं च ददति ॥ २१६७ ॥
एतदेव स्पष्टयति
सुत्तत्थं जइ गेहड़, तो से देइ परिच्छदं ।
गहिए विदेइ संघाडं, मा से नासेज्ज तं सुयं ॥ २१६८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि स रत्नाधिकस्ततः सूत्रार्थं गृह्णाति, ततः से तस्य ददाति परिच्छदं परिवारम् गृहीतेऽपि सूत्रार्थे ददाति संघाटम् । कस्माद् ? इत्याह- मा से तस्य भिक्षाटनव्याक्षेपतः प्रतिलेखनाव्याक्षेपतश्च तत् श्रुतं नश्येदिति हेतोः ॥ २१६८ ॥
For Private and Personal Use Only
सूत्र २६-३२
गाथा २१६८-२१७१ यथारना
धिकपार्श्वे
उपसम्पदा
९५८ (A)