________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९५७ (B)
इच्छा नो उवसंर्पजेजा, इच्छा भिक्खोववायं दलयइ कप्पागं, इच्छा नो दैलयइ . कप्पागं ॥ २५॥
"दो साहम्मिया" इत्यादि। द्वौ साधर्मिकावेकतः संहतौ विहरतः, तद्यथा- शैक्षो रत्नाधिकश्च। तत्र रात्निकः परिच्छन्नः परिवारोपेत इत्यर्थः, शैक्षतरकः अपरिच्छन्नः परिवाररहितः तत्र रात्निके रत्नाधिकस्य इच्छा यदि प्रतिभासते शैक्षतरकमुपसम्पद्यते। अथ नेच्छा न प्रतिभासते तर्हि नोपसम्पद्यते। भिक्षामुपपातं च कल्प्यं यदीच्छा तर्हि ददाति। अथ दातुं नेच्छा तर्हि न ददाति। एष सूत्रसंक्षेपार्थः । अधुना भाष्यविस्तर:
रायणिय परिच्छन्ने, उवसंप-पलिच्छिओ य इच्छाए । सुत्तत्थ कारणा पुण, पलिच्छयं देंति आयरिया ॥ २१६७ ॥
रात्निके रत्नाधिके द्रव्यतः परिच्छन्ने परिवारोपेते सति तेन शैक्षतरकस्य उपसम्पत् परिच्छदश्च इच्छया दातव्याः । इयमत्र भावना-स यदि शैक्षतरकोऽवमरत्नाधिकस्तुल्यश्रुतो १. यजइ-श्युब्रींग ॥ २-३. दलेजा- आगमप्रकाशने ॥
सूत्र २५
गाथा २१६२-२१६७
रालिकशैक्षतरयोः उपसम्पद्विधिः
९५७ (B)
For Private and Personal Use Only