________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९५५ (B)
सहायं, किन्त्वौचित्येन तस्य कृत्यं कारयति। एष द्वारगाथासंक्षेपार्थः ॥ २१६० ॥
साम्प्रतमेनामेव विवरीषुः प्रथमतः पूर्वार्धं विवृणोतिसंझंतिवासिणो दो वि, दो वि भावेण नियमसो छण्णा । रायणिए उवसंपय, सेहतरगेण कायव्वा ॥ २१६१ ॥
तौ द्वावपि सहाध्यायिनावेकस्य गुरोरन्तेवासिनौ च द्वावपि भावेन ज्ञानादिना नियमशो नियमेन छन्नौ, ज्ञानादिरूपभावपरिवारोपेतावित्यर्थः । द्रव्यपरिच्छदेन पुनः शैक्षतरक एवोपेतः । तत्र शैक्षतरकेण रात्निके रत्नाधिकस्योपसम्पत्कर्त्तव्या ॥ २१६१ ॥
"वोच्चत्थे मासलहुतो' इत्यस्य व्याख्यानमाहआलोइयम्मि सेहेण, तस्स वियडेइ पच्छ राइणितो । इति अकरणम्मि लहुगो, अवरोप्परगव्वतो लहुगा ॥ २१६२ ॥ प्रथमतः शैक्षतरकेण रत्नाधिकस्य पुरत आलोचनीयं, तेनालोचिते पश्चाद् |
सूत्र २४
गाथा २१५८-२१६२ रलाधिक
शैक्षयोः उपसम्पदादिः
९५५ (B)
For Private and Personal Use Only