________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९५६ (A)
रत्नाधिकस्तस्य शैक्षतरस्य पुरतो विकटयति आलोचयति। एतच्चेत् तौ न कुरुतस्तत इति एतस्याकरणे द्वयोरपि प्रत्येकं लघुको मासः प्रायश्चित्तम्। अवरोप्परगव्वतो लहुगा इति यदि शैक्षतरको द्रव्यपरिच्छेदेनाहं परिच्छन्न इति गर्वतो रत्नाधिकस्य पुरतो नाऽऽलोचयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः। रत्नाधिको यदि 'रत्नाधिकोऽहं' इति गर्वेण शैक्षतरकस्य पुरतो नाऽऽलोचयति तदा तस्यापि प्रायश्चित्तं चत्वारो लघुकाः ।। २१६२॥
एतदेवोपदेशद्वारेण स्पष्टयतिएगस्स उ परिवारो, बिइए रायणियत्तवादो य । इय गव्वो न कायव्वो, दायव्वो चेव संघाडो॥ २१६३ ॥
एकस्य परिवारोऽस्ति, द्वितीये रात्निकत्ववादः, रत्नाधिकोऽहमिति प्रवाद इति एवंरूपो गर्वो द्वाभ्यामपि न कर्तव्यः. किन्तु परस्परमालोचयितव्यमन्यथा चतुर्लघुकप्रायश्चित्तापत्तेः। | दातव्यश्च शैक्षतरकेण जघन्यतोऽपि रत्नाधिकस्य सङ्गाटः ॥ २१६३ ॥
सूत्र २५
गाथा २१६२-२१६७
रात्निक
शैक्षतरयोः | उपसम्पद्विधिः
९५६ (A)
१. कोऽयमिति-पु. प्रे.॥
For Private and Personal Use Only