________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९५४ (A)
शिष्ये स्वदीक्षितेऽयं नालबद्धोऽयमनालबद्ध इति विषयविभागेन नास्ति मार्गणा, किन्तु यत्ते शिष्या लभन्ते सचित्तादि तत्सर्वमाचार्यस्याऽऽभवति, केन दृष्टान्तेनेत्याहद्वयक्षरखरदृष्टान्तात् व्यक्षरो दासः खरो गर्दभस्तददृष्टान्तात. 'दासेन मे खरः क्रीतः, दासोऽपि मे खरोऽपि मे,' इत्येवंलक्षणात् ॥२१५७॥
सूत्रम्-दो साहम्मिया एगयतो विहरंति, तं जहा-सेहे राइणिए य, तत्थ सेहतराए पलिच्छन्ने, राइणीए अपलिच्छन्ने, सेहतराएणं राइणीए उवसंपज्जियव्वे, भिक्खोववायं च दलयइ कप्पागं ॥ २४ ॥
सूत्र २४ "दो साहम्मिया एगतो विहरंति, तं जहा-सेहे रायणिए य" इत्यादि। अस्य सूत्रस्य सम्बन्धमाह
२१५८-२१६२
रत्नाधिकचारियसुत्ते भिक्खू, थेरो वि य अहिकतो इहं तेसिं ।
शैक्षयोः दोण्ह वि विहरंताणं, का मेरा? लेसतो जोगो ॥ २१५८ ॥
उपसम्पदादिः चरिकासूत्रे प्राक् भिक्षुः स्थविरश्चाधिकृतस्तत इहास्मिन् सूत्रे तयोर्द्वयोर्विहरतोः का || ९५४ (A) मर्यादा व्यवस्थितेत्यभिधीयते, एष लेशतः पूर्वसूत्रेण सहास्य सूत्रस्य योगः सम्बन्धः
गाथा
For Private and Personal Use Only