________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९५३ (B)
दातव्यः। अथ कथमपि केनापि दत्तो भवति तर्हि तं दत्तमपि कुलसत्को वा गणसत्को वा कर्षयति ॥२१५५ ॥ खित्ताती आउरे भीते, अदिसत्थी व जं दए । सचित्तादि कुलादीओ, भुजो तं परिकड्डए ॥ २१५६ ॥ क्षिप्तादिः, आदिशब्दात् दृप्तयक्षाविष्टादिपरिग्रहः, आतुरो मरणचिह्नान्युपलभ्यात्याकुलः, भीतः किमपि मे राजप्रद्विष्टादिकं करिष्यति, न वेद्मि इति भयाकुलः, अदिगर्थी वाधिकृतां दिशं मोक्तुकामो यद्ददाति परस्मै सचित्तादिकं तद् भूयः कुलादिः, आदिशब्दात् गणपरिग्रहः परिकर्षयति ॥२१५६॥
तदेतत् प्रतीच्छकानधिकृत्योक्तमधुना शिष्यानधिकृत्याहनालबद्धे अनाले वा, सीसम्मि उ नत्थि मग्गणा । दोक्खरक्खरदिटुंता, सव्वं आयरियस्स उ ॥ २१५७ ॥
गाथा २१५०-२१५७ | प्रतीच्छकानां
विधिः
९५३ (B)
| १. न विद्भः इति - खं. वा. पु. ॥
For Private and Personal Use Only