________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति १, व्याकुलना वा व्याकुलीभवनं वा गच्छे २, नवमे वा पूर्वे, उपलक्षणमेतत्, श्री दशमे वा सूत्रमभिनवगृहीतं सम्यक् स्मर्तव्यमस्ति ३, गमनं वा अशिवादिभिः अशिवावमौव्यवहार-13
| दर्यादिभिः सम्पन्नं ४, सागरत्ति स्वयम्भूरमणसदृशमतिप्रभूतमनेकातिशयसम्पन्नं नवमं पूर्व सूत्रम्
परावर्तनीयमस्ति ५, तत एतैः कारणैभवपि विहरेयाताम्। एतानि कारणान्यधिकृतसूत्रप्रवृत्तौ चतुर्थ उद्देशकः
भणितानि। तथा जातेत्ति जातादिकल्पो वक्तव्यः६। तत्रापि भङ्गचतुष्टये प्रथमवर्जेषु शेषेषु ७९६ (BM
त्रिषु भङ्गेषु यतना वक्तव्या ७, तथा ऋतुबद्धे काले आगच्छद्गच्छद्भिरविरहितं तत्स्थानं कर्तव्यम् ८। गणिनाप्यवलोकना स्वयं करणीया कारणीया च ९॥१७१७॥
साम्प्रतमेनामेव गाथां व्याचिख्यासुः प्रथमतः संहननमिति पदं व्याख्यानयतिआयरिय-उवज्झाया, संघयण धितीए जे उ उववेया ।
गाथा सुत्तं अत्थो य बहुं, गहितो गच्छे य वाघातो ॥ १७१८ ॥ दारं १।।
१७१६-१७२० आचार्या वा उपाध्याया वा ये संहननेन प्रथमेन वज्रर्षभनाराचलक्षणेन धृत्या च || सूत्रप्रयोजनम् वज्रकुड्यसमानया उपेता: युक्ताः । सूत्रमर्थो वा बहुः प्रभूतो गृहीतः, गच्छे च सूत्रार्थस्मरणे - व्याघातः । कुतो व्याघात:? इति चेत्, उच्यते व्याकुलनातः १॥ १७१८ ।।
४
७९६ (B)
For Private and Personal Use Only