________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
९५० (A)
एतदेवाहअण्णकाले वि आयाया, कारणेण उ केणवि । ते वि तस्साऽऽभवंति उ विवरीयाऽऽयरियस्स उ ॥ २१४३ ॥
ये कारणेन ग्लानत्वादिना केनचित्पूर्वमुपस्थिता अन्यकालेऽपि यस्तेनोपसम्पद्यमानेन कालो निर्दिष्टस्तस्मादन्यस्मिन्नपि काले आयातास्तेऽपि तस्याऽऽभवन्ति, विपरीतास्तु कारणमन्तरेण कालविसंवादिन आचार्यस्याऽऽभाव्याः, उपलक्षणमेतत् सोऽपि यदि कारणेन के नचिन्निर्दिष्ट कालादन्यस्मिन् काले समायातस्तथापि तस्याभवन्ति विपरीतास्तु कारणमन्तरेणोपसम्पद्यमानकालविसंवादभाज आचार्यस्य आभाव्याः॥ २१४३ ।। विप्परिणयंमि भावे, जइ भावो सिं पुण वि उप्पण्णो । ते होताऽऽयरियस्स उ, अहिज्जमाणे य जो लाभो ॥ २१४४ ॥
सङ्केतकरणादनन्तरं यदि तेषां पूर्वमुपस्थितानां भावो विपरिणतो यथा नाऽमुकस्य पार्श्वे उपसम्पत्तव्यं; तस्मिन् विपरिणते भावे पश्चात्पुनरपि केनापि कारणेन उपसम्पदनाभिप्राय
गाथा २१४३-२१४९ संविज्ञानां दानविधिः
९५० (A)
For Private and Personal Use Only