________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९४७ (B)|
अधुना 'अब्भुवगमे तस्स इच्छाए' इति व्याख्यानयतिअब्भुवगयस्स सम्म, तस्स उ पणिवइय वच्छलो कोइ । वियरति तेच्चिय सेहे, एमेव य वत्थपत्तादी ॥ २१३८ ॥
सत्यं, मया न सुन्दरं कृतं, तस्मान्मिथ्या मे दुष्कृतमिति सम्यगभ्युपगतस्य प्रतिपन्नस्य कोऽप्याचार्यः प्रणिपतितवत्सलो ये शैक्षास्तेन दीक्षितास्तानेव च वितरति प्रयच्छति। एवमेव वस्त्र-पात्रादिकमपि तदुत्पादितं तस्यैव प्रयच्छति ॥ २१३८ ॥
उपसंहारमाहएवं तु अहिजते, ववहारो अभिहितो समासेण । अभिधारेंते इणमो, ववहारविहिं पवक्खामि ॥ २१३९ ॥
एवमनेन प्रकारेण तुः भिन्नक्रमः, स चाग्रे योक्ष्यते, अधीयाने व्यवहारः समासेन संक्षेपेणाभिहितः । इमं पुनर्व्यवहारविधिमभिधारयति प्रवक्ष्यामि ॥२१३९ ॥
गाथा २१३२-२१३९ उपसम्पन्नस्य आभवनव्यवहारः
९४७ (B)
For Private and Personal Use Only