SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देश: www.kobatirth.org साधयितव्यमतो निक्षिपामि योगमिति । एवं मायाबहुलतया यो योगं निक्षिपति तेन पापीयसा सर्वेषां गुरुकुलानां श्रुतोपसम्पद् लोपिता १ ॥ २१३० ॥ `र्बहिः उद्भ्रामकभिक्षाचर्यायां गतो यः सचित्तादिकमुत्पन्नं यस्य सकाशे समीपेऽधीते तमनापृच्छ्य निजाचार्याणां प्रेषयति, तेनापि सर्वगुरुकुलानां श्रुतोपसम्पल्लोपिता २ । विहीए आपुच्छणाए मायाए इति, यदा सचित्तादिकमुत्पन्नं तदैतत् चिन्तयति मा मम एतद् गुरवो ९४५ (B) हरिष्यन्ति ततो मायया विधिना गुरुनापृच्छति - स्वजनवर्गं वेन्दापयितुं व्रजामि; तेनापि सर्वगुरुकुलानां श्रुतोपसम्पल्लोपिता ३ अमीषां च त्रयाणामपि मायानिष्पन्नम् प्रायश्चित्तं मासगुरु, सचित्तनिष्पन्नं चतुर्गुरु, अचित्तविषयं जघन्यमध्यमोत्कृष्टोपधिनिष्पन्नम् । गुरुवयणे पच्छकडोत्ति ये ते त्रिभिः प्रकारैरपहृताः शिष्यास्ते कदाचित्स्नानादिषु समवसरणादौ मिलन्ति, गुरुणा च पृष्टाः सन्तो यथावन्निवेदयन्ति, ततो व्यवहारे जाते स आचार्यवचनेन पश्चात् क्रियते पराजीयते, योगनिक्षेप तस्य सत्कं सर्वमाचार्यस्याऽऽभवतीत्यर्थः । अब्भुवगमे तस्स इच्छाए इति पुनस्तेन पराजितेनाभ्युपगमः क्रियते, यथा 'न सर्वं मया सुन्दरं कृतं मिथ्यादुष्कृतं मम' इति तदा तस्यैवमभ्युपगमे इच्छया करोतु, मा वा तदुत्पादितसचित्ताद्यपहरणमिति ॥ २१३१ ॥ गाथा |२१२८-२१३१ सामाचारी १. बहिरुद्गमे सति भिक्षा खं. ॥ २. B3 मु. । वन्दापितुं -पु. प्रे. ॥ ܀܀܀܀܀܀ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ܀܀܀ ९४५ (B)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy