________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९४४ (B)
यत आहसालंबो विगतिं जो उ, आपुच्छित्ताण सेवए । स जोगे देसभंगो उ, सव्वभंगो विवजए ॥ २१२७ ॥
सालम्बो विकृतिभिः प्रीणितः सन् क्षिप्रं ज्ञानादि ग्रहीष्यामीत्यालम्बनसहितो यो गुरुमापृच्छ्य विकृती: सेवते परिभुङ्क्ते, स योगे योगस्य देशभङ्गो भवति, न सर्वभङ्गो, विपर्यये आलम्बनाभावे गुर्वनापृच्छायां च सर्वभङ्गः ॥ २१२७॥
अथ 'साक्षाद्योगं निक्षिपति, न च सर्वभङ्ग' इति का वाचो युक्तिरत आहजह कारणे असुद्धं, भुंजतो न उ असंजतो होइ । तह कारणम्मि जोगं, न खलु अजोगी ठवेंतो वि ॥ २१२८ ॥
यथा कारणे छिन्नाध्वकादावशुद्धमपि भुञ्जानो न तु नैवासंयतो भवति, तथा कारणे दुर्बलत्वादिलक्षणे सति योगं स्थापयन्नपि खलु नैवायोगी भवति, ततो न सर्वभङ्गः ॥२१२८॥
गाथा २१२८-२१३१ योगनिक्षेप सामाचारी
९४४ (B)
For Private and Personal Use Only