________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ९४४ (A)
तथा चाहविगतीकएण जोगं, निक्खिवए दढदुब्बले । से भावतो अनिक्खित्ते, निक्खित्ते वि य तम्मि उ ॥ २१२५ ॥
यः संहननेन दृढोपि सन् शरीरेण दुर्बल इति कृत्वा विकृतिकृतेन विकृतिपरिभोगाय योगं निक्षिपति, से तस्य निक्षिप्तेऽपि तस्मिन् योगे भावतः स योगोऽनिक्षिप्त एव, गुर्वाज्ञया निक्षेपणात् ॥२१२५ ॥
विगतिकएण जो जोगं, निक्खिवे अदढे बले । स भावतो अनिक्खित्ते, उववाएण गुरूण उ ॥ २१२६ ॥
यः बली बलवानपि संहननेनादृढ इति कृत्वा विकृतिकृतेन योगं निक्षिपति स योगस्तस्य | भावतोऽनिक्षिप्त एव। कुतः? इत्याह-गुरुणामुपपातेन आज्ञया "उववातो निद्देसो आणा विणओ य होंति एगट्ठा"[गा.२०७२] इति वचनात्, निक्षेपणादिति वाक्यशेषः । न च तथा योगनिक्षेपणे योगस्य सर्वथा भङ्गः॥ २१२६॥
गाथा २१२८-२१३१ योगनिक्षेप सामाचारी
९४४ (A)
For Private and Personal Use Only