________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
४
व्यवहार- सूत्रम् चतुर्थ उद्देशकः ९४३ (B)
आगाढयोगे पक्वविकृतिव्यतिरेकेण शेषा नवापि विकतयो विवर्जनीया। दशम्या: पुनः पक्वविकृतेर्भवति भजना विकल्पना, आगाढं ग्लानत्वमधिकृत्य पूर्वप्रकारेण तस्याः सेवना भवति, शेषकालं नेति भावः। इतरस्मिन् अनागाढयोगे शेषकाणामपि क्षीरादीनां विकृतीनां भजना विकल्पना, आगाढग्लानस्यानागाढग्लानस्य चान्तरान्तरा विकृतिग्रहणाय कायोत्सर्गस्यापि करणाभ्यनुज्ञानात् ॥ २१२३ ॥ सम्प्रति “निक्कारणकारणे विगती" [गा.२११२] इति व्याख्यानयति
निक्कारणे न कप्पंति, विगतीतो जोगवाहिणो । कप्पंति कारणे भोत्तुं, अणुण्णाया गुरुहि उ ॥ २१२४ ॥
योगवाहिन आगाढयोगवाहिनो अनागाढयोगवाहिनो वा निष्कारणे ग्लानत्वादि- 13 कारणाभावे विकृतयः पूर्वप्रकारेण भोक्तुं न कल्पन्ते। कारणे पुनरनुज्ञाता गुरुभिर्भोक्तुं कल्पन्ते, न च कारणे योगनिक्षेपेऽपि दोषः ॥२१२४ ।।
गाथा २१२०-२१२४ योगनिक्षेप सामाचारी
܀܀܀܀܀܀
९४३ (B)
For Private and Personal Use Only