________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशक: ९४३ (A)
गतं महामहद्वारम् ३। इदानीमध्वा-ऽवम-राजद्विष्टलक्षणं द्वारत्रयमाहअद्धाणेमे जोगीणं एसियं सेसगाण पणगादी । असतीए अणागाढे, निक्खिव सव्वासती इयरे ॥ २१२२ ॥
अध्वनि ग्रामानुग्रामिके योगं वहन्ति । अथ छिन्नाध्वकं तदा यत् एषितं प्रासुकमित्यर्थः, तत् योगिनां योगवाहिनां दीयते, शेषाणां पञ्चकादि दातव्यम्। किमुक्तं भवति? शेषाः पञ्चकपरिहाण्या पञ्चकादिषु यतन्ते। अथ सर्वे योगवाहिनो न संस्तरन्ति प्रासुकेन, तत आह- असति सर्वेषां तेषां योगवाहिनां प्रासुके अनागाढे अनागाढयोगवाहिनां योगस्य निक्षेप: करणीयः । अथ सर्वथा तत्र प्रासुकं न लभ्यते तत आह- सर्वेषां प्रासुकस्यासत्यभावे इतरेऽप्यागाढयोगवाहिनो निक्षिप्यन्ते । एवमवमौदर्ये राजद्विष्टेऽपि च भावनीयम् ॥ २१२२ ।।
साम्प्रतमागाढे नवकवर्जनमिति व्याख्यानार्थमाहआगाढम्म उ जोगे, विगतीओ नव विवज्जणीयाओ । दसमाए होइ भयणा, सेसगभयणा वि इयरम्मि ॥ २१२३ ॥
गाथा २१२०-२१२४ योगनिक्षेप सामाचारी
९४३ (A)
For Private and Personal Use Only