________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९४२ (B)
܀܀܀܀܀܀܀܀
܀܀܀܀܀܀
www.kobatirth.org
जति निक्खिप्पर दिवसे, भूमीए तत्तिए उवरि वड्ढे । अपरिमियं तुद्देसो, भूमीए तओ परं उ कमसो [गा. २११६] ॥ तं व्रजिकाद्वारम् ॥ २१२० ॥ इदानीं महामहद्वारमाह
सक्कमहादीएसु व पमत्तं, मी णं सुरा छले ठवणा । पीणिज्जंतु व अदढा, इतरे उ वहंति न पढंति ॥ २१२१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
महामहः शक्रमहादयः । आदिशब्दात् सुग्रीष्मकमहादिपरिग्रहः । तेषु ठवणत्ति ये अनागाढयोगप्रतिपन्नास्तेषां योगो निक्षिप्यते, किं कारणम् ? इति चेद्, अत आह मा तं प्रमत्तं सन्तं काचित् मिथ्यादृष्टिर्देवता छलयेत् । अन्यच्च तेषु दिवसेषु विकृतयो लभ्यन्ते, ततो ये अदृढा दुर्बलाः सन्ति ते विकृतिपरिभोगत आप्यायन्तामिति योगनिक्षेपणम् । ये पुनः इतरे आगाढयोगवाहिनस्तेषां योगो न निक्षिप्यते, ते केवलमन्यन्नोद्दिशन्ति, नापि पठन्ति ॥ २१२१ ॥
१. गाणं- लाडनू. पाठा । मातं- मु. लाडनू. ॥
For Private and Personal Use Only
गाथा |२१२०-२१२४ योगनिक्षेप सामाचारी
९४२ (B)