SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९४१ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ गतो द्वितीयो भङ्गः। सम्प्रति तृतीयमाहतिण्णितिगेगंतरिए, गेलण्णाऽऽगाढ निक्खिव परेणं । तिण्णि तिगा अंतरिया, चउत्थऽठंते व निक्खिवणा ॥ २११८॥ अनागाढे योगे आगाढे ग्लानत्वे त्रीन् दिवसानां त्रिकान् एकान्तरिकान् कारयेत् । तथाप्यतिष्ठति ततः परेण योगस्य निक्षेपः कर्तव्यः। इयमत्र भावना- एकस्मिन् दिवसे विकृतिग्रहणाय कायोत्सर्गः कृतः, द्वितीये दिवसे पुनः कृतः कायोत्सर्ग, एवं तृतीयेपि, चतुर्थे दिवसे कृतं निर्विकृतिकं, पुनः पंचम-षष्ठ-सप्तमेषु कायोत्सर्गः, ततो भूयः अष्टमे दिवसे निर्विकृतिकं, नवमे दिवसे कायोत्सर्गः। एवं कृतेऽपि यदि न स्थितं ग्लानत्वं ततो दशमे दिवसे योगनिक्षेपः। गतस्तृतीयोऽपि भङ्गः। सम्प्रति चतुर्थमाह- तिण्णि तिगा इत्यादि, त्रयस्त्रिकाः, नवदिवसा इत्यर्थः, अन्तरिता एकान्तरिताश्चतुर्थे भने कर्तव्याः । तथाप्यतिष्ठति ग्लानत्वे योगस्य निक्षेपणम्। अत्रापीयं भावना- एकस्मिन् दिवसे कायोत्सर्गः, द्वितीये दिवसे निर्विकृतिकम्, तृतीये दिवसे कायोत्सर्गः, चतुर्थे निर्विकृतिकम्, एवमेकान्तरिते कायोत्सर्ग-निर्विकृतिके नव दिवसान् कारयेत् तथाप्यतिष्ठति ग्लानत्वे दशमे दिवसे योगो गाथा २११५-२११९ योगनिक्षेपसामाचारी ९४१ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy