________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९४० (B)
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्धयेत् । किमुक्तं भवति ? - यावति यावति पठिते स्थितः स्वाध्यायः स्वाध्यायभूमिस्तत्र यावतो दिवसान् वोढ्वा योगो निक्षिप्यते तावतो दिवसान् भूयोऽपि योगमुत्क्षिप्य योगोद्वहनेन स्वाध्यायभूमेरुपर्येवमेवातिवाहयेत् । अथ यस्मिन् दिने योगः प्रथममुत्क्षिप्तस्तस्य विस्मृतेर्दिवसपरिमाणं प्रतिनियतं कर्तुं न शक्यते तत आह- अपरिमितं यदि दिवसपरिमाणं तत उद्देशो ग्राह्यः, स स्वाध्यायभूमेरुपर्येवमेव योगोद्वहनेनातिवाह्यते, ततस्तावन्मात्रदिवसातिवाहनात् परं क्रमशः सूत्रपाठानुसारेण वहेत् ॥ २११६ ॥
गतः प्रथमभङ्गः । सम्प्रति द्वितीयभङ्गमधिकृत्याह
गेलण्णमणागाढे, रसवति नेहोव्वरे असति पक्का ।
तह विय अठायमाणे, आगाढतरं तु निक्खिवणा ।। २११७ ॥
ग्लानत्वेऽनागाढे रसवत्यां शालनकादौ यः स्नेह उद्धारितः स प्रक्षणाय प्रदीयते तथापि असति अतिष्ठति ग्लानत्वे यानि शतपाकादिना पक्वानि घृत-तैलानि तानि म्रक्षणाय दातव्यानि । तथाप्यतिष्ठति ग्लानत्वे ग्लानमागाढतरं ज्ञात्वा योगस्य सर्वथा निक्षेपणं कर्तव्यम्
॥ २११७ ॥
For Private and Personal Use Only
गाथा
२११५-२
योगनिक्षे
सामाचा
९४० (