________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९३९ (B)
योगे ग्लानत्वे च प्रत्येकमागाढे इतरस्मिन् अनागाढे भवति चतुर्भङ्गी। गाथायां पुंस्त्वनिर्देशः प्राकृतत्वात्। सा चैवम्-आगाढो योग आगाढं ग्लानत्वम् १, आगाढो योगोऽनागाढं ग्लानत्वम् २, अनागाढो योग आगाढं ग्लानत्वम् ३, अनागाढो योगोऽनागाढं ग्लानत्वं ४। तथा चाह- प्रथमो भङ्गो उभयागाढः उभयमागाढं यस्मिन् स तथा। द्वितीयस्तृतीयश्च एकेनागाढेन, द्वितीय आगाढयोगेन, तृतीय आगाढग्लानत्वेनेत्यर्थः। चतुर्थ उभयस्याप्यागाढस्याभावे ॥ २११३॥
तत्र प्रथमभङ्गमधिकृत्य विधिमाहउभयम्मि वि आगाढे, दड्वेल्ल-पक्कएहि तिण्णि दिणे । मक्खंति अठायंते, पजंत धरे दिणा तिन्नि ॥ २११४ ॥
उभयस्मिन्नपि योगे ग्लानत्वे चागाढे तं प्रतिपन्नाऽऽगाढयोगमागाढग्लानत्वं दग्धेनपक्वपक्वान्नोद्धरितेन घृतेन तैलेन वा, यदि वा पक्वेन शतपाकादिना तैलेन त्रीणि दिनानि
गाथा २१०९-२११४
योगविसर्जनकारणानि
९३९ (B)
For Private and Personal Use Only