________________
Shri Mahavir Jain Aradhana Kendra
ཙྪི ཙྪཱ, ཝཱ』 ,
उद्देशकः
९३७ (B)
܀܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राभृते श्रुतस्कन्धे अतोषिते समाप्त्यनन्तरं भक्तिबहुमानादिपुरस्सरमाचार्यादिक्षमणया तोषमनीते यदि निर्गच्छति तर्हि तस्मिन् प्रायश्चित्तं छेदः । यश्च तं पाठयितुं प्रतीच्छति तस्मिन् प्रतीच्छके प्रायश्चित्तं चत्वारो गुरुकाः । योऽपि च तस्य निर्गतस्यान्यत्र प्रविष्टस्य लाभस्तमपि न लभते प्रतीच्छन् । किमुक्तं भवति ? स तथानिर्गतो यत्किमप्युत्पादयति सचित्तादिकं तत्पूर्वतनस्याचार्यस्याभवति, न तु तस्य नापि यस्तं पाठयति तस्य प्रतीच्छत इति ॥२१०७॥
तदेवं गच्छान्निर्गतानां विधिरुक्तः । सम्प्रत्यनिर्गतानां तमभिधित्सुराह -
तत्थवि य अच्छमाणे, गुरु-लहुया सव्वभंगे जोगस्स । आगाढमणागाढे, देसे भंगे उ गुरुलहुओ ॥ २१०८॥
तत्रापि गच्छे तिष्ठन् यदि योगं वक्ष्यमाणप्रकारेण भनक्ति देशतः सर्वतो वा तदा तस्मिन् योगस्यागाढस्य सर्वतो भङ्गे प्रायश्चित्तं चत्वारो गुरुकाः, अनागाढस्य सर्वतो भङ्गे चत्वारो लघुकाः। तथा आगाढे आगाढस्य देशतो भङ्गे गुरुको मासः, अनागाढस्य देशतो भङ्गे लघुकः ॥ २१०८ ॥
For Private and Personal Use Only
गाथा
| २१०३-२१०८ योगसमाप्तौ गमने
सामाचारी
९३७ (B)