________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः |
९३७ (A)
नोद्देशनाचार्यस्य। अथाकृते कायोत्सर्गे व्रजति तर्हि यावदन्यत्र गतोऽपि तं श्रुतस्कन्धं पठति, सारां चोद्देशनाचार्यस्तस्य करोति, तावद्यत् किमपि स सचित्तादिकमुत्पादयति, तत्सर्वमुद्देशनाचार्यो लभते, न पुनरितरः ॥२१०५ ॥
तीरिय अकए उ गते, जा अण्णं न पढए उ ता पुरिमे । आसण्णाओ नियत्तइ, दूरगतो वावि अप्पाहे ॥ २१०६ ॥
तीरिते समाप्तिं नीते आगाढे योगे श्रुतस्कन्धे च, भक्तिपुरस्सरमाचार्यादि क्षमणया तोषिते, यदि गमनवेलायामनाभोगतोऽकृते कायोत्सर्गे याति, तर्हि स गतः सन् यावदन्यन्न पठति न पठितुमारभते, तावद्यत्किमपि लभते, तत्पूर्वस्याचार्यस्याभवति, न तस्य। तस्य चास्मरणतोऽकृते कायोत्सर्गे गतस्येयं सामाचारी- यदि आसन्ने प्रदेशे गत्वा स्मृतं तत आसन्नाद् निवर्तते। अथ दूरं गतेन स्मृतं तर्हि तत्र यं साधर्मिकं पश्यति, तस्य समीपे कायोत्सर्गं कृत्वा अप्पाहे इति सन्देशं कथयति, यथा मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति ॥ २१०६ ॥
अवितोसविते पाहुडे, निते च्छेदो पडिच्छे चउगुरुया । जोवि य तस्स उ लाभो, तंपि य न लभे, पडिच्छंतो ॥ २१०७ ॥
गाथा २१०३-२१०८ योगसमाप्तौ
गमने सामाचारी
९३७ (A)
For Private and Personal Use Only