________________
Shri Mahavir Jain Aradhana Kendra
܀܀܀܀܀܀
www.kobatirth.org
श्री
व्यवहार
सूत्रम्
प्रथमे चरमे च कारणे समुपजाते उभयस्मिन्नप्याचार्ये प्रतीच्छके च विधिं स्मरति छिन्ना संप्रति उपसंपदिति ज्ञापनार्थं कायोत्सर्गं कृत्वा स प्रतीच्छको व्रजेत् । अथ प्रातीच्छिकस्य विस्मृतं तत आचार्येण स्मारयितव्यं यथा— कुरु छिन्नोपसंपन्निमित्तं चतुर्थ कायोत्सर्गमिति । अथानाभोगतो द्वयोरपि पम्हुट्टमिति एकान्तेन विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कायोत्सर्गे सम्प्रस्थितो यद्यासन्ने प्रदेशे स्मरति, तदासन्नात् प्रदेशात् निवर्तेत, ९३४ (B) निवृत्त्य च कायोत्सर्गो विधेयः ॥ २०९७॥
उद्देशकः
दूरगएण उ सरिए, साहम्मिं दट्टु तस्सगासम्मि । काउस्सग्गं काउं, जं लद्धं तं च पेसेइ ॥ २०९८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
अथ दूरं गत्वा स्मृतवान्, ततो दूरगतेन स्मृते साधर्मिकं दृष्ट्वा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, सन्देशश्च प्रेषणीयः आचार्यस्य यथा- तदानीं युष्मत्समीपे कायोत्सर्गकरणं विस्मृतम्, इदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति । कायोत्सर्गं च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति ॥ २०९८ ॥
For Private and Personal Use Only
गाथा
| २०१५-२१०२ निर्गमनविधि:
९३४ (B)