SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ www.kobatirth.org निष्ठितं नाम येन कारणेनोपसम्पन्नस्तत्सूत्रार्थलक्षणं कारणं निष्ठितं समाप्तं ततो निर्गच्छति । महल्लत्ति महती सूत्रमण्डली भक्तमण्डली वा । तत्र सूत्रमण्डल्यां चिरेणालापक आगच्छति, भक्तमण्डल्यां महत्यां भागागतं, तत्र यथान्ये साधवोऽध्यासते तथा तेनाप्यध्यासितव्यम्, अध्यासीनश्च निर्गच्छति । तथा दुलर्भं तत्र क्षेत्रे भैक्षं, तत्र यथान्ये साधवो यापयन्ति तथा तेनापि प्रतीच्छितेन यापनीयम्, यापनां चासहमानः कोऽपि निर्गच्छति । कारणमशिवादिकं, ९३३ (A) तस्मिन् समुत्पन्ने सर्वैर्निर्गन्तव्यम् । उपसर्गाद्विविधाः - दंशमशकादयः स्वजनादयश्च । तत्र दंशमशकादिषूपसर्गेषु सर्वैर्निर्गन्तव्यम्, स्वजनादिकृतेषु तूपसर्गेषु गच्छसाधवो निर्गच्छन्ति वा न वा, प्रतीच्छितेन पुनरवश्यं निर्गन्तव्यम् । अगारीप्रतिबन्धो नाम यत्रागार्या विषये आत्मपरोभयसमुत्था दोषास्तत्रावश्यं तेन निर्गन्तव्यम् । अत्र प्रथमं चरमं च कारणं मुक्त्वा शेषेषु कारणेषु निर्गमे आभवद्व्यवहारः प्रायश्चित्तव्यवहारश्च । स यथा भवति तथा वक्ष्ये ॥। २०९१ ॥ एतदेव व्याचिख्यासुराह - सम्मत्तम्मि सुए तम्मि, निग्गमो तस्स होति इच्छाए । मंडल महल्ल भिक्खे, जह अण्णे तह सो वि जावए । २०९२ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only गाथा २०८७-२०१४ निर्गमनकारणानि ९३३ (A)
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy