________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९३२ (B)
प्रेषयथ, अस्माकं पुनः क्षेत्रप्रत्युपेक्षणार्थं गतानां पूर्वगृहीतमपि नश्यति । एवमुक्त्वा यदि ते क्षेत्रस्य अप्रत्युपेक्षकाः । विनयवैयावृत्त्यादेरकारकाश्च ततस्तान् विसर्जयति ॥ २०८९ ॥
सव्वं करिस्सामो ससत्तिजुत्तं, इच्चेवमिच्छंते पडिच्छिऊणं । निव्वेसबुद्धीए न यावि भुंजे, तं चागिला पूरति तेसि इच्छं ॥ २०९० ॥
ये पुनः सन्दिष्टाः सन्तः एवं ब्रुवते यथा- सर्वं स्वशक्तियुक्तं स्वशक्त्युचितं करिष्यामः, तान् एवमिच्छतः प्रतीच्छेत्। प्रतीष्य च तान् न चापि नैव निर्वेशबुद्ध्या 'कर्म मया पुराकृतमेवं वेदयितव्य 'मिति बुद्ध्या भुङ्क्ते परिभोगं नयति, किन्तु स्वपरयोर्निर्जराबुद्ध्या। यया चेच्छया ते उपसम्पद्यन्ते तां चेच्छां तेषामगिलया निर्जराबुद्ध्या पूरयति, न परोपरोधाच्चित्तनिरोधेन ॥२०९०॥
अथ तेषां प्रातीच्छिकानां कियन्तं कालं प्रातीच्छको भवति? तत्राहनिट्ठिय महल्ल भिक्खे, कारण उवसग्गऽगारिपडिबंधो । पढमचरिमाइं मोत्तुं, निग्गम सेसेसु ववहारो ॥ २०९१ ॥
.
गाथा २०८७-२०९४ निर्गमनकारणानि
९३२ (B)
For Private and Personal Use Only