SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९३१ (B) सम्प्रत्याभवत्यनाभवति च सचित्तादौ विषये मार्गणां चिकीर्षुराहपुण्णे व अपुण्णे वा, विपरिणएसु जा होअणुण्णवणा । गुरुणावि न कायव्वा, संका लद्धे विपरिणते उ ॥ २०८६ ॥ ये ते विदेशे स्वदेशेऽपि वा दूरं गन्तुकामाः सङ्केतं कृतवन्तः 'यदि वयमेतावद्भिर्दिवसैन प्रत्यागच्छामस्तदा ज्ञातव्यं गता इति, अन्यथा न' इति । तस्मिन्नवधौ पूर्णे अपूर्णे वा यदि ते विपरिणता जातास्ततः पुनरपि तैरवग्रहस्य द्वितीयं वारमनुज्ञापना कर्तव्या। गुरुणापि या तेषु तथाविपरिणतेष्वनुज्ञापना भवति, सा प्रतिपत्तव्या। यदि पुनरपूर्णेऽवधौ तेषां शैक्षः प्रत्युत्पन्नस्ततो जाताऽऽशङ्का यद्यपूर्णेऽवधावेष समुत्पन्न इति कथयिष्यते तत आचार्यस्य भविष्यति, तस्मादाचार्यस्य मा भूदिति प्रत्यागतास्ते आलोचयन्ति- पूर्णे सङ्केतकाले लब्धोऽयमस्माभिः शैक्ष इति तदा तेषां प्रायश्चित्तं मासगुरु। तस्मात्सत्यभूतेन भावेनालोचयितव्यम्। तथा पूर्णेऽवधौ शैक्षे लब्धे प्रत्यागत्य तथैवालोचयति, गुरुणापि शङ्का न कर्तव्या यथा अपरिपूर्णेऽप्यवधौ लब्धे शैक्षे शैक्षलोभेन विपरिणत इति, सत्यभावेनालोचनात्। तच्च परभावोपलक्षकैरक्लेशेन ज्ञातव्यमिति ॥२०८६ ॥ गाथा ४२०८१-२०८६ दूरगमने सामाचारी ९३१ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy